वांछित मन्त्र चुनें

विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् । आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥

अंग्रेज़ी लिप्यंतरण

viśvasmā agnim bhuvanāya devā vaiśvānaraṁ ketum ahnām akṛṇvan | ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan ||

पद पाठ

विश्व॑स्मै । अ॒ग्निम् । भुव॑नाय । दे॒वाः । वै॒श्वा॒न॒रम् । के॒तुम् । अह्ना॑म् । अ॒कृ॒ण्व॒न् । आ । यः । त॒तान॑ । उ॒षसः॑ । वि॒ऽभा॒तीः । अपो॒ इति॑ । ऊ॒र्णो॒ति॒ । तमः॑ । अ॒र्चिषा॑ । यन् ॥ १०.८८.१२

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:12 | अष्टक:8» अध्याय:4» वर्ग:12» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वस्मै भुवनाय) सब जगत् के लिये (देवाः) समष्टिप्राण (वैश्वानरम्-अग्निम्) सब नरों के हितकर सूर्य को (अह्नां केतुम्-अकृण्वन्) दिनों का प्रज्ञापक बनाते हैं, (यः) जो सूर्य (विभातीः-उषसः-आततान) विशेष प्रकाशवाली उषाओं-किरणों को भलीभाँति तानता है (अर्चिषा तमः-उ-अप ऊर्णोति) तेज से अन्धकार को नितान्त निवृत्त करता है ॥१२॥
भावार्थभाषाः - समष्टिप्राण सूर्य को प्रकट करते हैं और उसे किरणें चमकाती हैं, वह अन्धकार को मिटाता है ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वस्मै भुवनाय) सर्वस्मै जगते (देवाः) समष्टिप्राणाः (वैश्वानरम्-अग्निम्) सर्वनरेभ्यो हितकरं सूर्याग्निं (अह्नां केतुम्-अकृण्वन्) दिवसां प्रज्ञापकं कुर्वन्ति (यः) सूर्यः (विभातीः-उषसः-आततान) विभासमानाः-उषसः किरणान् समन्तादातनोति (अर्चिषा तमः-उ-अप-ऊर्णोति) तेजसान्धकारं नितान्तं निवारयति ॥१२॥